Freako-2 Publish time 17-6-2011 04:06 PM

Learn Sanskrit

Post Last Edit by Freako-2 at 17-6-2011 16:07

Hinduism and Sanskrit are inseparable. From its inception, Vedic thought has mainly been expressed through the medium of the Sanskrit language. Sanskrit, therefore, forms the basis of Hindu civilization.
So lets learn some basic Sanskrit. If there's another thread on this, forgive me.

Numbers

0 - śūnya - ०
1 - éka - १
2 - dvi - २
3 - trí - ३
4 - catúr - ४
5 - pañca - ५
6 - ṣáṣ - ६
7 - saptá - ७
8 - aṣṭá - ८
9 - náva - ९
10 - dasa - १०
11 - ékadasa - ११
12 - dvadasa - १२
13 - trayodasa - १३
14 - caturdasa - १४
15 - pancadasa - १५
16 - shash - १६
17 - saptadasa - १७
18 - aṣṭádasa - १८
19 - návadasa - १९
20 - vimsati - २०
30 - trimsati - ३०
40 - catvarimsati - ४०
50 - pancasat - ५०
60 - sasti - ६०
70 - sapti - ७०
80 - asiti - ८०
90 - navati - ९०
100 - satam, sata - १००

Freako-2 Publish time 17-6-2011 04:10 PM

Give me time and I'll update asap on the other Sanskrit numerals.

Freako-2 Publish time 18-6-2011 03:43 PM

Continuation...


200 - dvisata
300 - trisata
356 - sat pancasat trisata
400 - catursata
500 - pancasata
1000 - sahasra
2000 - dvisahasra
3000 - trisahasra
4000 - catursahasra
10,000 - dasasahasra, ayuta
20,000 - vimsatsahasra
30,000 - trimsatsahasra
100,000 - satasahasra, laksha, lak


Hindu mathematicians also had the exact names for figures up to 10^53. Selected few as below:

Ekam - 10^0
Dashkam - 10^1
1 Shatam - 10^2
1 Shahashram - 10^3
10 Dash Shahashram - 10^4
Laksha - 10^5
Dash Laksha - 10^6
Kotihi - 10^7
Ayutam - 10^9
Niyutam - 10^11
Kankaram - 10^13
Vivaram - 10^16
Pararadahaa - 10^17
Nivahata - 10^19
Utsangaha - 10^21
Bahulam - 10^23
Naagbaalaha - 10^25
Titlambam - 10^27
Vyavasthaanapragnaptihi - 10^29
Hetuhellam - 10^31
Karahuhu - 10^33
Hetvindreeyam - 10^35
Sampaata Lambhaha - 10^37
Gananaagatihi - 10^39
Niravadyam - 10^41
Mudraabalam - 10^43
Saraabalam - 10^45
Vishamagnagatihi - 10^47
Sarvagnaha - 10^49
Vibhutangaama - 10^51
Tallakshanaam - 10^53

kirhmuru Publish time 22-6-2011 12:56 PM

Really nice info...thanks..keep up ur contribution...:)

Freako-2 Publish time 23-6-2011 11:25 AM

body-kaya, deha
finger-anguli
face-mukhi
head-mundam
neck-kandha
shoulder-bhuja
hand-hasta, kara
foot-charana
eye-nethra
ear-srotra
nose-naasika
mouth-aasya

Feel free to add other words for those who know Sanskrit. And also if there are any correction to what I've posted, do feel free to correct me....I'm still learning it myself too.. ;)

genot Publish time 5-11-2011 10:10 AM

suprabhatam - gud morning

tava naam kim asti?
what is your name?

mam naam sneha asti
my name is sneha

aham sneha asmi
i am sneha

nice thread keep it up! {:1_132:}

genot Publish time 22-11-2011 04:30 PM

Can anyone pls tag this thread above so it won't sink down? Because Sanskrit is the language of Vedas. So, everyone must acquire themselves with Vedic Sanskrit at least just understand the language could be enough. Use Roman script or any Indic scripts that everyone knows to record the language. No need to use Devanagri because Tamil script and other scripts of mother India could also record Sanskrit perfectly. If possible also learn Tamil because many records are preserved well in Tamil beside Sanskrit.

i9uoNo8S7Jo
http://www.youtube.com/watch?v=i9uoNo8S7Jo

p5GGNY9pkfw&feature
http://www.youtube.com/watch?v=p5GGNY9pkfw&feature=related


WfGQcNo-gRA
http://www.youtube.com/watch?v=WfGQcNo-gRA

vikramavardhana Publish time 6-5-2014 04:20 PM

Om avighnam astu!

Some readings in Sanskrit.... It's an easy language...

चत्वारः वेदाः भवन्ति । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति । एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागः अस्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभानवतां ऋषीणां योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति ।

संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरुपणे स्वतन्त्रभावन प्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।

प्रधानतया वेदो द्विविधः मन्त्ररुपो ब्राह्मणरुपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरुपो वेदभागस्तु संहिताभागस्य व्याख्यारुपएव । स चायं ब्राह्मणभागो यागस्वरुपबोधकतया प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरुपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रुपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरुपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च सन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।

अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् ।

vikramavardhana Publish time 6-5-2014 04:26 PM

qvMebj1ANkg

Greetings to Sri Venkateswaran

vikramavardhana Publish time 11-5-2014 10:17 PM

श्रीमद्भागवतपुराणम्

हिन्दूधर्मस्य अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं श्रीमद्भागवतम् अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः भक्ति योगः अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त: सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता व्यासः । श्रीमद्भागवतम् भारतीयवाङ्मयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित: अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति। [१]

भागवतपुराणे महर्षि सूत गोस्वामी तस्य समक्षे प्रस्तुतसाधूभ्यः शौनकादिभ्यो एकां कथाम् उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सर्वेषाम् अवताराणां संक्षिप्तरुपेण वर्णनं कृतमस्ति। द्वितीये स्कन्धे पुराणलक्षणानां वर्णनं कृतम्। एते लक्षणाः सर्गः, विसर्गः, स्थानं, पोषणम्, ऊतयः, मन्वन्तरम्, ईशानुकथा, निरोधः, मुक्तिः, आश्रयश्च। एतेषाम् लक्षणानाम् वर्णनं तृतीयस्कन्धादारभ्य द्वादशस्कन्धपर्यन्तं क्रमेण भवति।

विद्यावतां भागवते परीक्षा इत्युक्तेर्भागवतस्य काठिन्यं श्रुतचरम् । भागवतस्य पुराणत्वे लोकाः सन्दिहते, ते हि देवीभागवतमेवाष्टादशपुराणान्तर्गतं मन्यन्ते न श्रीमद्भागवतम् । त्रयोदशशतकोत्पन्नो वोपदेवनाम‌ वङ्गीयो विद्वान् श्रीमदभागवतं प्रणीतवानिति कथनमपि श्रीमदभागवतस्य पुराणत्वं सन्देहे पातयतां केषाञ्चनावस्तुतत्त्वविदामेव ।

वस्तुतस्तु पुराणेषु अपेक्षितस्य ग्रन्थविस्तरस्य ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम्’ इति स्वरुपनिर्दिशस्य च भागवते सत्त्वेन तदीयं महापुराणत्वं न सन्देहदोलाधिरुढम् श्रीमदभागवतं गायत्रिमन्त्रेणारभ्यते तेनैव च समाप्तिमाप्नोतीति मन्ये महामन्त्रसम्पुटितमिदं न केवलं पुराणमेवापि तु महापुराणम् । अष्टादशपुराणेषु गणनाऽपि भागवतशब्दसाधारण्यादुभयोः प्राप्नोति, तत्र श्रीमदभागवतमुत्कृष्टगुणशालितया प्राथम्यमर्हति ।

vikramavardhana Publish time 11-5-2014 10:17 PM

श्रीमद्भागवतपुराणम्

वोपदेवेन त्रयोदशशतकोत्पन्नेन भागवतं रचितमिति कथनं तु नितान्तनिर्मूलम् तत्र कारणान्यधो निर्दिश्यते –

    १. द्वैतमतानुयायी मध्वाचार्यो भागवतोपरि भागवततात्पर्यनिर्णयं नाम टीकाग्रन्थं व्यरचयत्, मध्वाचार्यः ११९९ ई. वर्षे जन्माग्रहीत्, अतस्त्रयोदशशतकात् पूर्वकालिकं भागवतं त्रयोदशशताब्द्यामुत्पन्नेन वोपदेवेन प्रणीतं न सम्भवति ।
    २. एकादशशतकोत्पन्नो रामानुजाचार्यो वेदान्ततत्वसारनामके स्वग्रन्थे भागवतवर्त्तिवेदस्तुतेः पद्यमुदधृतवान् ।
    ३. चित्सुखाचार्येण नवमशतकसम्भूतेन विरचिताया भागवतव्याख्याया निर्देशो मध्वाचार्यश्रीधरस्वामिविजयध्वजैः स्वग्रन्थेषु कृतः ।
    ४. दशमशतकोत्पन्नः प्रत्यभिज्ञादर्शनाचार्योऽभिनवगुप्तः स्वीयायां गीतादीकायां भागव्तस्यैकादशस्कन्धतः कतिपयपद्यानि उद्धृतवान् ।
    ५. साङ्ख्याकारिकासु माठरवृत्तिनाम्नी व्याख्या विद्यते, यस्याः अनुवादःचीनदेशभाषायां ५५७-५६९ मध्ये कदाचिदजायत, तत्र भागवतस्य श्लोकद्वयं निर्दिष्टम् ।
    ६. अष्टमशतकोत्पन्नः शङ्कराचार्यः गोविन्दाष्टक-प्रबोधसुधाकरनामकयोः स्वस्तोत्रयोः स्तुतिप्रसङ्गे यासां घटनानां चर्चामकृत ता भागवत इव स्थिताः ।
    ७. शङ्कराचार्यस्य परमगुरवः गौडपादाचार्याः पञ्चीकरणव्याख्यां ‘जगृहे पौरुषं रुपम्’ इति भागवतस्य पद्यं भागवतनामोपादानपूर्वकसुद्धृतवान् । अयं गौडपादाचार्यः षष्ठ शतकात् परतो नैव सम्भावयितुं शक्यते ।

इमानि प्रमाणानि सभेरीनादं साधयन्ति भागवतस्य षष्ठशतकात्प्राचीनताम्, तथा सति त्रयोदशशताब्दीजातेन वोपदेवेन निर्मितत्वं वक्तुरुपहासायैव केवलम् । पद्मपुराणान्तर्गत भागवतमाहात्म्यानुसारेण तु कलियुगप्रारम्भ एव भागवतस्य निर्माणं सिद्ध्यति । वोपदेवेन यदि भागवतं कृतं तदा हरिलीलामृतं मुक्ताफलं चेति ग्रन्थद्वयं कथं कृतम् ? हरिलीलामृते भागवतानुक्रमणी विद्यते, मुक्ताफलं च भागवतस्थसरसश्लोकानां संग्रहः, वोपदेवस्य भागवतरचयितृत्वे मुक्ताफलसदृशस्य ग्रन्थस्य तेनैव प्रणयनएप्यर्थमेव स्यात् ।

vikramavardhana Publish time 11-5-2014 10:19 PM

भागवतस्य कवितासौष्ठवम्

भागवतस्य पद्येषु गद्येष्वपि तादृशं चमत्कारकं सौष्ठवं प्राप्यते यत तेन विदुषां मनांसि हठादाकृष्यन्ते । नवेषु काव्यषु जातेष्वपि भागवतगता काव्यमाधुरी नापकृष्टतां गता । तत्पठतां मनांसि भागवतं काव्यमेव प्रथमं मन्यन्ते ततोऽनन्तरं पुराणादि किञ्चिदन्यत । भागवते समायातानि मथुराद्वारकाप्रभृतिनगरीवर्णनानि यथा कलायुतानि तथैव यथार्थान्यपि । केशिनो विकरालस्य रुपस्य जरासन्धभीमयोर्भीषणस्य गदायुध्दस्य च वर्णनमेकतो यदि रोमाञ्चमुदञ्चयति तदा गोपिगीतभ्रमरगीतादि पठयमानमेव हृदयं स्तिमितयति नयने उदस्रयति च । दृश्याताम –

    रत्नप्रदीपनिकरद्युतिभिर्निरस्त-
    ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।
    नृत्यन्ति यत्र विहितागुरुधूपमक्षै –
    र्निर्यान्तमीक्ष्य घनबुध्दय उन्नदन्तः॥

द्वारकावर्णनपद्येऽस्मिन् मयूराणां भ्रमस्य वर्णनं नितान्तमनोहरमिदम् । भागवतस्थितेषु वर्णनेषु चमत्कारस्तदाऽतिशयमाप्नोति यदा तत्र वर्णनेष्वपि आत्महिताधायका आध्यात्मिका उपदेशा रसवृष्टिं कुर्वते –

    गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः ।
    अभिभूयमाना विषयैर्यथाऽधोक्षजचेतसः ॥ ( १०/२०/१५)
    सरिद्भिः संगतः सिन्धुःचुक्षुभे श्वसनोर्मिवान् ।
    अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ॥ (१०/२०/१४)

रासपञ्चाध्यायी भागवतस्य काव्यकलायाः पराकाष्ठाया निदर्शनम् –

    शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।
    सुरतनाथ तेऽशुल्कदासिका वरद विध्नतो नेह किं वधः ?॥
    चरसि तंयद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाय ते पदम् ।
    तृणकृशाङ्कुरैः खिद्यतीतिः नः कलिलतां मनः कान्त गच्छति ॥

ईदृशं सङ्गीतमयं हृदयोद्गारप्रकाशनक्षमं च सरसं काव्यं वस्तुतः संस्कृतसाहित्येऽपरत्र दुर्लभमिति कथनं भूतार्थकथनमेव ।

vikramavardhana Publish time 11-5-2014 10:19 PM

भागवतस्य टीकासम्पत्

वैष्णवदर्शनिकैः सर्वैरेव भागवतस्य व्याख्या कृता, तदयं भागवतग्रन्थो ब्रह्मसूत्रसमतां गतः । अस्य ग्रन्थस्य टीकासम्पदेवादसीयं गौरवं गमयितुमलम्

    चित्सुखाचार्यकृता टीका, नोपलभ्यते, केवलं निर्दिश्यते ।
    श्रीधरकृता टिका, इयं प्रामाणिकी, ‘श्रीधरः सकलं वेत्ति श्रीनृसिंहप्रसादतः’ इति श्रुतेः ।
    सुदर्शनसूरिणः शुकपक्षीया टीका, श्रीवैष्णवमतपोषिका ।
    वीरराघवाचार्यस्य भागवतचन्द्रचन्दिकाटीका, श्रीवैष्णवमतपोषिका ।
    विजयध्वजकृता पदरत्नावली, माध्वमतपोषिका ।
    सनातनगोस्वामिनः बृहद्वैष्णवतोषिणी, दशमस्कन्धस्य ।
    जीवगोस्वामिनः क्रमसन्दर्भः ।
    विश्वनाथचक्रवर्तिनः सारदर्शिनी ।
    जीवगोस्वामिनः षट्सन्दर्भः, तत्त्वविवेचनग्रन्थः ।
    वल्लभाचार्यस्य सुबोधिनी, वल्लभसम्प्रदायस्य ।
    शुकदेवचार्यस्य सिध्दान्तप्रदीपः, निम्बार्कसम्प्रदायस्य ।
    श्रीहरेः हरिभक्तिरसायनं नाम पद्यमयी टीका ।

एवं वयं पश्यामो यदाचार्याः भागवतं स्वमतपोषणाय सादरं व्याचख्युः, अतोऽस्य ग्रन्थस्य सारत्त्वं प्रतीमः ।
Pages: [1]
View full version: Learn Sanskrit


ADVERTISEMENT